कल्याण- मन्दिरमुदारमवद्य-भेदि
भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् ।
संसार-सागर-निमज्जदशेषु-जन्तु –
पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥
यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः
स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् ।
तीर्थेश्वरस्य कमठ-स्मय- धूमकेतो-
स्तस्याहमेष किल संस्तवनं करष्येि ॥ २ ॥
सामान्यतोऽपि तव वर्णयितुं स्वरूप-
मस्मादृशः कथमधीश भवन्त्यधीशाः ।
धृष्टोऽपि कौशिक- शिशुर्यदि वा दिवान्धो
रूपं प्ररूपयति किं किल घर्मरश्मेः ॥३ ॥
मोह-क्षयादनुभवन्नपि नाथ मर्त्यो
नूनं गुणान्गणयितुं न तव क्षमेत।
कल्पान्त-वान्त- पयसः प्रकटोऽपि यस्मा-
मीयेत केन जलधेर्ननु रत्नराशिः ॥४ ॥
अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि
कर्तुं स्तवं लसदसंख्य-गुणाकरस्य ।
बालोऽपि किं न निज- बाहु-युगं वितत्य
विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५ ॥
ये योगिनामपि न यान्ति गुणास्तवेश
वक्तुं कथं भवति तेषु ममावकाशः।
जाता तदेवमसमीक्षित-कारितेयं
जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि ॥६॥
आस्तामचिन्त्य – महिमा जिन संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति ।
तीव्रातपोपहत- पान्थ-जनान्निदाघे
प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥७॥
द्वर्तिनि त्वयि विभो शिथलीभवन्ति
जन्तो: क्षणेन निबिडा अपि कर्म-बन्धाः ।
सद्यो भुजङ्गममया इव मध्य-भाग-
मभ्यागते वन-शिखण्डिनि चन्दनस्य ॥८ ॥
मुच्यन्त एव मनुजाः सहसा जिनेन्द्र
रुद्रैरुपद्रव – शतैस्त्वयि वीक्षितेऽपि ।
गो-स्वामिनि स्फुरित-तेजसि दृष्टमात्रे
चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥
त्वं तारको जिन कथं भविनां त एव
त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः ।
यद्वा दृतिस्तरति यज्जलमेष नून-
मन्तर्गतस्य मरुतः य किलानुभावः ॥१० ॥
यस्मिन्हर-प्रभृतयोऽपि हत – प्रभावः
सोऽपि त्वया रति-पतिः क्षपितः क्षणेन ।
विध्यापिता हुतभुजः पयसाथ येन
पीतं न किं तदपि दुर्धर – वाडवेन ॥११॥
स्वामिन्ननल्प- गरिमाणमपि प्रपन्न-
स्त्वां जन्तवः कथमहो हृदये दधानाः ।
जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदि वा प्रभाव: ॥१२॥
क्रोधस्त्वया यदि विभो प्रथमं निरस्तो
ध्वस्तास्तदा वद कथं किल कर्म-चौराः ।
प्लोषत्यमुत्र यदि वा शिशिरापि लोके
नील- द्रुमाणि विपिनानि न किं हिमानि ॥१३॥
त्वां योगिनो जिन सदा परमात्मरूप-
मन्वेषयन्ति हृदयाम्बुज- कोष-देशे ।
पूतस्य निर्मल-रुचेर्यदि वा किमन्य-
दक्षस्य सम्भव-पदं ननु कर्णिकायाः ॥१४॥
ध्यानाज्जिनेश भवतो भविनः क्षणेन
देहं विहाय परमात्म- दशां व्रजन्ति ।
तीव्रानलादुपल- भावमपास्य लोके
चामीकरत्वमचिरादिव धातु-भेदाः ॥१५ ॥
अन्तः सदैव जिन यस्य विभाव्यसे त्वं
भव्यैः कथं तदपि नाशयसे शरीरम् ।
एतत्स्वरूपमथ मध्य-विवर्तिनो हि
यद्विग्रहं प्रशमयन्ति महानुभावाः ॥ १६ ॥
आत्मा मनीषिभिरयं त्वदभेद-बुद्ध्या
ध्यातो जिनेद्र भवतीह भवत्प्रभावः।
पानीयमप्यमृतमित्यनुचिन्त्यमानं
किं नाम नो विष-विकारमपाकरोति ॥१७ ॥
त्वामेव वीत-तमसं परवादिनोऽपि
नूनं विभो हरि-हरादि-धिया प्रपन्नाः ।
किं काच- कामलिभिरीश सितोऽपि शङ्खो
नो गृह्यते विविध-वर्ण-विपर्ययेण ॥ १८ ॥
धर्मोपदेश- समये सविधानुभावा-
दास्तां जनो भवति ते तरुरप्यशोकः ।
अभ्युद्गते दिनपतौ समहीरुहोऽपि
किंवा विबोधमुपयाति न जीव-लोकः ॥१९॥
चित्रं विभो कथमवाङ्मुख- वृन्तमेव
विष्वक्पतत्यविरला सुर- पुष्प – वृष्टिः ।
त्वद्गोचरे सुमनसां यदि वा मुनीश
गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥
स्थाने गभीर – हृदयोदधि-सम्भवायाः
पीयूषतां तव गिरः समुदीरयन्ति ।
पीत्वा यतः परम-सम्मद-सङ्ग- भाजो
भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥२१॥
स्वामिन्सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचयः सुर – चामरौघा ।
येsस्मै नतिं विदधते मुनि-पुङ्गवाय
ते नूनमूर्ध्व-गतयः खलु शुद्ध-भावाः ॥२२॥
श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न-
सिंहासनस्थमिह भव्य- शिखण्डिनस्त्वाम् ।
आलोकयन्ति रभसेन नदन्तमुच्चैः
चामीकराद्रि-शिरसीव नवाम्बुवाहम् ॥२३ ॥
उद्गच्छता तव शिति-द्युति- मण्डलेन
लुप्त-च्छद- च्छविरशोक – तरुर्बभूव ।
सान्निध्यतोऽपि यदि वा तव वीतराग !
नीरागतां व्रजति को न सचेतनोऽपि ॥२४॥
भो भोः प्रमादमवधूय भजध्वमेन-
मागत्य निर्वृति-पुरीं प्रति सार्थवाहम् ।
एतन्निवेदयति देव जगत्त्रयाय
मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥२५ ॥
उद्योतितेषु भवता भुवनेषु नाथ
तारान्वितो विधुरयं विहताधिकारः ।
मुक्ताकलाप – कलितोरुसितातपत्र-
व्याजात्त्रिधा धृत-तनुर्ध्रुवमभ्युपेतः ॥२६ ॥
स्वेनं प्रपूरित – जगत्त्रय – पिण्डितेन
कान्ति-प्रताप – यशसामिव संचयेन ।
माणिक्य- हेम – रजत – प्रविनिर्मितेन
सालत्रयेण भगवन्नभितो विभासि ॥२७॥
दिव्य-स्रजो जिन नमत्रिदशाधिपाना-
मुत्सृज्य रत्न- रचितानपि मौलि-बन्धान् ।
पादौ श्रयन्ति भवतो यदि वापरत्र
त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥
त्वं नाथ जन्म- जलधेर्विपराङ्मुखोऽपि
यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान् ।
युक्तं हि पार्थिव-निपस्य सतस्तवैव
चित्रं विभो यदसि कर्म-विपाक-शून्यः ॥२९ ॥
विश्वेश्वरोऽपि जन- पालक दुर्गतस्त्वं
किं वाक्षर – प्रकृतिरप्यलिपिस्त्वमीश ।
अज्ञानवत्यपि सदैव कथञ्चिदेव
ज्ञानं त्वयि स्फुरति विश्व-विकास- हेतु ॥ ३० ॥
उत्थापितानि कमठेन शठेन यानि ।
प्राग्भार-सम्भृत-नभांसि रजांसि रोषाद्
छायाऽपि तैस्तव न नाथ हता हताशो
ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥३१॥
यद्गर्जदूर्जित- घनौघमदभ्र – भीम-
भ्रश्यत्तडिन्मुसल-मांसल – घोर-धारम् ।
दैत्येन मुक्तमथ दुस्तरवारि दध्रे,
तेनैव तस्य जिन दुस्तरवारि कृत्यम्॥ ३२॥
ध्वस्तोर्ध्व- केश – विकृताकृति – मर्त्य-मुण्ड-
प्रालम्बभृद्भयदवक्त्र – विनिर्यदग्निः ।
प्रेतव्रजः प्रति भवन्तमपीरितो यः
सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः ॥३३॥
धन्यास्त एव भुवनाधिप ये त्रिसन्ध्य-
माराधयन्ति विधिवद्विधुतान्य-कृत्याः ।
भक्त्योल्लसत्पुलक-पक्ष्मल- देह- देशाः
पाद-द्वयं तव विभो भुविजन्मभाजः ॥३४॥
अस्मिन्नपार – भव- वारिनिधौ मुनीश
मन्ये न मे श्रवण-गोचरतां गतोऽसि ।
आकर्णिते तु तव गोत्र- पवित्र – मन्त्रे
किं वा विपद्विषधरी सविधं समेति ॥ ३५ ॥
जन्मान्तरेऽपि तवं पाद-युगं न देव
मन्ये मया महितमीहित-दान-दक्षम् ।
तेनेह जन्मनि मुनीश पराभवानां
जातो निकेतनमहं मथिताशयानाम् ॥३६॥
नूनं न मोह – तिमिरावृत- लोचनेन
पूर्वं सकृदपि प्रविलोकितोऽसि ।
मर्माविधो विधुरयन्ति हि मामनर्थाः
प्रोद्यत्प्रबन्ध – गतयः कथमन्यथैते ॥३७॥
आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि
नूनं न चेतसि मया विधृतोऽसि भक्त्या ।
जातोऽस्मि तेन जन- बान्धव दुःखपात्रं
यस्मात्क्रियाः प्रतिफलन्ति न भाव- शून्याः ॥३८॥
त्वं नाथ ! दुःखि-जन-वत्सल ! हे शरण्य !
कारुण्य- पुण्य – वसते ! वशिनां वरेण्य !
भक्त्या नते मयि महेश ! दयां विहाय
दुःखाडूरोद्दलन – तत्परतां विधेहि ॥ ३९ ॥
निः सख्य-सार- शरणं शरणं शरण्य-
मासाद्य सादित-रिपु-प्रथितावदानम् ।
त्वत्पाद – पङ्कजमपि प्रणिधान – बन्ध्यो
वन्ध्योऽस्मि तद्भवन – पावन हा हतोऽस्मि ॥ ४० ॥
देवेन्द्र – वन्द्य विदिताखिल-वस्तुसार
संसार – तारक विभो भुवनाधिनाथ ।
त्रायस्व देव करुणा-ह्रद मां पुनीहि
सीदन्तमद्य भयद- व्यसनाम्बुराशेः ॥४१ ॥
यद्यस्ति नाथ ! भवदङ्घ्रि- सरोरुहाणां
भक्तेः फलं किमपि सन्तत- सञ्चितायाः ।
तन्मे त्वदेक- शरणस्य शरण्य ! भूयाः
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२ ॥
इत्थं समाहित-धियो विधिवज्जिनेन्द्र
सान्द्रोल्लसत्पुलक- कञ्चुकिताङ्ग-भागाः ।
त्वबिम्ब-निर्मल-मुखाम्बुज – बद्धलक्ष्या
ये संस्तवं तव विभो रचयन्ति भव्याः ॥४३॥
(आर्या छन्द)
जन-नयन-‘कुमुदचन्द्र’- प्रभास्वराः स्वर्ग-सम्पदो भुक्त्वा ।
ते विगलित-मल-निचया, अचिरान्मोक्षं प्रपद्यन्ते ॥४४ ॥